स यत्प्रथममपाहन्सा कृष्णाविरभवत् ।
यद्द्वितीयमपाहन्सा धूम्राविरभवत् ।
यत्तृतीयमपाहन्सा फाल्गुन्यविरभवत् ।
स यं कामयेत पापीयान्स्यादिति कृष्णमस्य पवित्रेऽप्यस्येत्पापीयानेव भवति ।
अथ यं कामयेत नार्वाङ्न परस्स्यादिति धूम्रमस्य पवित्रेऽप्यस्येन्नैवार्वाङ्न परो भवति ।
अथ यं कामयेत श्रेयान्स्याद्रुचमश्नुवीतेति फाल्गुनमस्य पवित्रं कुर्याच्छ्रेयानेव भवति रुचमश्नुते ।
अस्ति हि तत्राप्यादित्यस्य न्यक्तम् ।
तदन्तरेषे अवहृत्य सम्मार्ष्टि वसवस्त्वा सम्मृजन्तु गायत्रेण छन्दसा ।
रुद्रा स्त्वा सम्मृजन्तु त्रैष्टुभेन छन्दसा ।
आदित्यास्त्वा सम्मृजन्तु जागतेन छन्दसा इति ।
तद्तदुदीचीनदशं पवित्रवत्या वितनोति पवित्रं ते विततं ब्रह्मणस्पते इति समष्ट्यै ।
तपोष्पवित्रं विततं दिवस्पदे इति स्वर्गकामस्य ।
अरूरुचदुषसः पृश्निरग्रयुः इति प्रजाकामस्य ।
सर्वाभिरेव वितनुयादेतेषां सर्वेषां कामानामुपाप्त्यै ।
राजानमानयति ।
तमभिमन्त्रयते स पवस्व सुधामा देवानामभि प्रैयाणि धाम ।
त्रिर्देवेभ्योऽपवथास्त्रिरादित्येभ्यस्त्रिरङ्गिरोभ्यः ।
येन तुर्येण ब्रह्मणा बृहस्पतयेऽपवथास्तेन मह्यं पवस्व ।
स नः पवस्व शं गवे शं जनाय शमर्वते
शं राजन्नोषधीभ्यः
इति ।
शमेवोद्गात्रे भवति शं यजमानाय शं प्रजाभ्यः ।
अध्वर्युराग्रायणं ग्रहं गृह्णन्हिङ्करोति ।
तदेव हिङ्कृतं भवति ।
अथोद्गात्रैकर्चो गायत्रं गायति उच्चा ते जातमन्धसा इति ।
स उदित्येवेतो देवेभ्यो हव्यं वहति दिवि सद्भूम्या ददे इत्यमुतो वृष्टिमाच्यावयति ।
ताविमौ लोकौ सवासिनौ करोति ।
तावस्मै कामं पिन्वाते ।
काममस्मा इमौ लोकौ पिन्वाते य एवं वेद ८१