सम्मुखान्ग्राव्णः कृत्वाभिमृशति श्येना अजिरा ऋतस्य गर्भाः प्रयुतो नपातः पर्वतानां ककुभ आ नस्तं वीरं वहत यं बहव उपजीवामो अभिशस्तिकृतमनभिशस्तेन्यमन्यस्याभिशस्त्याः कर्तारमिति ।
आ हैवास्य वीरो जायतेऽभिशस्तिकृदनभिशस्तेन्योऽन्यस्याभिशस्त्याः कर्ता ।
द्रो णकलशमध्यूहति इदमहं मां ब्रह्मवर्चसेऽध्यूहामि इति ।
यद्यस्यावरुद्धो राजन्यस्स्याद्विमुखान्ग्राव्णः कृत्वा तूष्णीं द्रो णकलशमध्यूह्य तमवह्वारयन्दक्षिणा निरूहेदिदमहममुं विशो निरूहामीदमस्य राष्ट्रं न्युब्जामि इति न्यञ्चं द्रो णकलशं न्युब्जेत् ।
सम्मुखान्ग्राव्णः कृत्वा योऽस्य राजन्यस्स्यात्तस्य नाम गृहीत्वा द्रो णकलशमध्यूहेदिदमहममुं विश्यध्यूहामि इति ।
अपेतरो रुध्यतेऽवेतरो गच्छति ।
स यद्येनमवगत्य नाद्रि येत तं कामयेत अत्रैवान्तरवरुद्धोऽस्त्विति ।
विमुखान्ग्राव्णः कृत्वा तूष्णीं द्रो णकलशमध्यूह्य इमा पांशुसवनः इति ग्रावा ।
तमुपरिष्टादभिनिदध्यादिदमहममुष्मिन्विश्यध्यूहामि इति ।
अभिप्रक्षीणानाहीनं वितिष्ठति ।
स यद्येनं विदित्वोपधावेदस्मिन्वावेदं ब्राह्मणेऽध्यास यदिदमस्मै वचने वचेति ।
सम्मुखान्ग्राव्णः कृत्वा द्रो णकलशमध्यूहेदिदमहममुं विश्यध्यूहामि इति ।
ईशे स्वानामपैनं स्याश्चायन्त्यनन्तरमवरुद्धो भवति ७९