०७८

वसवो वा एतमग्रे प्रौहन् ।

तेऽश्राम्यन् ।

ते रुद्रा नाह्वयन् ।

तं रुद्राः प्रौहन् ।

तेऽश्राम्यन् ।

त आदित्यानाह्वयन् ।

तमादित्याः प्रौहन् ।

तं प्रोहति वसवस्त्वा प्रोहन्तु गायत्रेण छन्दसा ।

रुद्रा स्त्वा प्रोहन्तु त्रैष्टुभेन छन्दसा ।

आदित्यास्त्वा प्रोहन्तु जागतेन छन्दसा इति ।

देवतानामेवैनं तत्प्रौढिमनुप्रोहति ।

देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रोहामि इति वा प्रोहेत् ।

देवाङ्गैरेवैनं तत्प्रोहति ।

बृहस्पतिर्वा एतमग्रे प्रौहत् ।

स रूपेण वर्चसा व्यार्ध्यत ।

स षक्षत कास्य प्रायश्चित्तिरिति ।

तां द्रो णकलश एव पर्यपश्यत् ।

तमभ्यमृशत्तनूपा असि तन्वं मे पाहि ।

वर्चोधा असि वर्चो मे धेहि ।

आयुर्धा अस्ययुर्मे धेहि ।

वयोधा असि वयो मे धेहि इति ।

यदेवास्य तत्रात्मनो मीयते तदेतेनाप्यायनम् ।

एतेनैवोद्गाताभिमृशति तनूपा असि तन्वं मे पाहि ।

वर्चोधा असि वर्चो मे धेहि ।

आयुर्धा अस्ययुर्मे धेहि ।

वयोधा असि वयो मे धेहि इति ।

यदेवास्यात्रात्मनो मीयते तदेतेनैवाप्यायते ।

द्वयं वावेदं ब्रह्म चैव क्षत्रं च ।

तदुभयं द्रो णकलशे ।

उभयं ब्रह्म च क्षत्रं चावरुन्द्धे य एवं वेद ७८