कुसुर्विन्दो हौद्दालकिस्सोमानामुज्जगौ ।
तमु हासितमृगा कश्यपानां पुत्रा ऊचुः को नु नोऽयं नृशंसकोऽन्त उद्गायत्येतेममनुव्याहरिष्याम इति ।
तेऽनुव्याहरिष्यन्त आस्तावमुपसेदुः ।
स होवाच नमो ब्राह्मणा अस्तु पुरा वा अहमद्य प्रातरनुवाकाद्गायत्रेण विश्वरूपासु यज्ञं समस्थापयम् ।
स यथा गोभिर्गवायमित्वा श्रमणमबलमनुसन्नुदेदेवं वावेदं यज्ञशरीरमनुसन्नुदाम इति ।
ते होत्थाय प्रवव्रजुर्नमोऽस्मै ब्राह्मणायास्तु विदां वा अयमिदं चकारेति ।
पुरा ह वा अस्य प्रातरनुवाकाद्गायत्रेण विश्वरूपासु यज्ञस्संस्थितो भवति य एवं वेद ७५