नमः पितृभ्यः पूर्वसद्भ्यो नमस्साकन्निषद्भ्यः
युज्ये वाचं शतपदीं गाये सहस्रवर्तनीम्
गायत्रं त्रैष्टुभं जगद्विश्वा रूपाणि सम्भृतम्
देवा ओकांसि चक्रिरे
इति ।
यन्नमः पितृभ्यः पूर्वसद्भ्यः इति पितरो वा अत्र पूर्व उपसीदन्ति ।
न तेभ्य एवैतन्नमस्करोति नमस्साकन्निषद्भ्यः इति यैरेव ब्राह्मणैस्सहोपसीदत्यार्त्विज्यं करिष्यंस्तेभ्य एवैतन्नमस्करोति ।
युज्ये वाचं शतपदीमिति वाचमेवैतच्छतपदीं युङ्क्ते ।
गाये सहस्रवर्तनीमितियुक्तामेवैनामेतत्सहस्रवर्तनीं भूतां गायति ।
गायत्रं त्रैष्टुभं जगदिति एतानि वै त्रीणि सवनानि तान्येवैतान्यात्मन्परिगृह्णीते ।
विश्वा ओकांसि चक्रिरे इति सदेवमेवैतेन यज्ञं कुरुते ७४