प्रजापतिः प्रजा असृजत ।
सोऽग्निमपि मुखादसिसृक्षत ।
सोऽग्निर्मुखाद्बीभत्समान ऊर्ध्वं उद्द्रुत्य मस्तिष्कमुद्धत्यासृज्यत ।
तं देवाश्चर्षयश्चोपसमेत्याब्रुवन्वितुन्नोऽयं मस्तिष्को मामुया भूत्करवामेमं कस्यां चिताचितीति ।
ते बृहस्पतिमब्रुवन्सोममस्मिन्गृहाणेति ।
स बृहस्पतिरब्रवीत्स वा अयं क्रूर इवापूतोऽमेध्योऽशृतङ्कृत इति ।
वयं त एतं पूतं मेध्यं शृतङ्कृतं कुर्म इत्यब्रुवन् ।
तं वै म आहरतेति ।
तथेति ।
तमस्मै प्रायच्छन् ।
तं प्रत्यगृह्णाद्देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि इति ।
देवाङ्गैर्वावैनं तत्प्रत्यगृह्णात् ।
तं प्रतिगृह्यापवयत्
वसवस्त्वा पुनन्तु गायत्रेण छन्दसा सुप्रजावनिं रायस्पोषवनिम्
रुद्रा स्त्वा पुनन्तु त्रैष्टुभेन छन्दसा सुप्रजावनिं रायस्पोषवनिम्
आदित्यास्त्वा पुनन्तु जागतेन छन्दसा सुप्रजावनिं रायस्पोषवनिम्
इति ।
छन्दोभिश्च वावैनं तद्देवताभिश्चापवयत् ।
तं पवयित्वा पश्चादक्षं सादयति बार्हस्पत्यमसि वानस्पत्यं प्रजापतेर्मूर्धात्यायुपात्रमिति ।
यदाह बार्हस्पत्यमसि इति बृहस्पतिर्ह्येतमग्रे प्रत्यगृह्णात् ।
यदाह वानस्पत्यमिति वनस्पतिभ्यो ह्येनमधिकुर्वन्ति ।
यदाह प्रजापतेर्मूर्धा इति प्रजापतेर्ह्येष मूर्धासीत् ।
यदाह अत्यायुपात्रमित्यति ह्येतदन्यानि पात्राणि पात्रम् ।
यदेतद्देवपात्रं प्रथमं युज्यत उत्तमं विमुच्यते तेनैवात्यन्यानि पात्राणि ।
प्र श्रेयसः पात्रमाप्नोति य एवं वेद ।
तं पश्चादक्षं सादयित्वा गायत्रं विश्वरूपासु गायति ७३