०७२

प्रजापतिरुद्गातोर्गुदुम्बरः ।

स एष ऊर्जि श्रितः प्रजापतिः प्रजाभ्य ऊर्जमन्नाद्यं विभजति ।

उदङ्ङासीन उद्गायति ।

उदीचीमेव तद्दिशमूर्जा भाजयति ।

प्रत्यङ्ङासीनः प्रस्तौति ।

प्रतीचीमेव तद्दिशमूर्जा भाजयति ।

दक्षिणासिनः प्रतिहरति ।

दक्षिणामेव तद्दिशमूर्जा भाजयति ।

प्राञ्चोऽन्य ऋत्विज आर्त्विज्यं कुर्वन्ति ।

प्राचीमेव तद्दिशमूर्जा भाजयन्ति ।

तस्मादेषा दिशां वीर्यवत्तमोपजीवनीयतमा भूयिष्ठैः प्रीता ।

तस्माद्यत्प्रजा अवृत्तिं नीयन्ति प्राचीरेव यन्ति ।

एषा हि दिशां वीर्यवत्तमोपजीवनीयतमा भूयिष्ठैः प्रीता ।

यदुदीचीनदेवत्या उद्गातारोऽथ कस्माद्विपर्यावृत्य दिश आर्त्विज्यं कुर्वन्तीत्याहुः ।

ब्रूयाद्दिशामभिष्ट्यै दिशामभिप्रेत्यै ।

तस्मात्सर्वासु दिक्ष्वन्नं विद्यत इति ।

उद्दिवं स्तभानान्तरिक्षं पृण पृथिवीमुपरेण दृंह ।

द्युतानस्त्वा मारुतो मिनोतु मित्रावरुणयोर्ध्रुवेण धर्मणा ।

घृतेन द्यावापृथिवी आ प्रीणीथाम् ।

सुपिप्पला ओषधीः कृधि स्वाहा इत्यौदुम्बरीमभिजुहोति ।

इमानेवैतल्लोकान्रसेनानक्ति ७२