०७१

प्रजापतेर्वा एतदुदरं यत्सदः ।

ऊर्गुदुम्बरः ।

यन्मध्यतस्सदस औदुम्बरीमीयते मध्यत एवैतत्प्रजानामन्नमूर्जं दधाति ।

तस्मान्मध्यतोऽशनमशितं धिनोति ।

तस्माद्यत्रैषा यातयाम्नी क्रियते तत्प्रजा अशनायुका भवन्ति ।

पोषुका ह त्वै भवन्ति ।

उपस्पृश्यां नोपस्पृश्यामिति मीमांसन्ते ।

सर्वं वावेदमात्मन्वत् ।

यस्त्वा अन्नमभीव कामयते तमेवैतद्भूयिष्ठं द्वेष्टि ।

यदुपस्पृशेदन्नाद्यं प्रथमेत् ।

यन्नोपस्पृशेदन्नाद्यादात्मानमन्तर्यात् ।

उपस्पृश्य नस्वास्पृष्टेनैवोद्गेयन्नान्नाद्यं प्रथमति नान्नाद्यादात्मानमन्तरेति ।

साम देवानामन्नमूर्गुदुम्बरः ।

यदुद्गातौदुम्बरीं श्रयते सामन्नेवैतद्देवानामन्नमूर्जं दधाति ।

तस्माद्यत्र साम्नार्त्विज्यं कुर्वन्ति तदेव देवा भूयिष्ठमिवादन्ति ७१