प्रजापतिः प्रजाभ्य ऊर्जं व्यभजत् ।
तदुदुम्बरस्समभवत् ।
प्रजापतिरुद्गाता प्राजापत्य उदुम्बरः ।
वृणुतेऽन्यानृत्विजो नोद्गातारम् ।
यदुद्गाता प्रथमेन कर्मणौदुम्बरीमन्वारभते स्वयैव तद्देवतयात्मानमार्त्विज्याय वृणीते ।
तामन्वारभते आयोष्ट्वा सदने सादयाम्यवतश्छायायां समुद्र स्य हृदये ।
नमस्समुद्रा य नमस्समुद्र स्य चक्षसे ।
मा मा योनोर्वां हासीः इति ।
यदाह आयोष्ट्वा सदने सादयामि इति यज्ञो वा आयुस्तस्यैतत्सदनं क्रियते ।
अवतश्छायायामिति ।
यज्ञो वा अवतिः ।
तस्यैषा छाया क्रियते यत्सदः ।
समुद्र स्य हृदये इति ।
मध्यतो वा आत्मनो हृदयम् ।
तस्मान्मध्यतस्सदस औदुम्बरीमीयते ।
नमस्समुद्रा य नमस्समुद्र स्य चक्षसे इति ।
वाग्वै समुद्रो मनस्समुद्र स्य चक्षः ।
एताभ्यामेवैतद्देवताभ्यां नमस्करोति ।
आर्त्विज्यं करिष्यन्मा मा योनोर्वां हासीः इति साम वै योनोर्वां साम्न एवैतन्नमस्करोति ।
आर्त्विज्यं करिष्यन्नैनंसामावहते ।
न सामन्यामार्तिमार्छति ।
न साम्नो हीयते य एवं विद्वान्साम्ने नमस्करोति ।
य एवैनमुपवदति स आर्तिमार्छति ७०