०६९

स उदरादेव मध्यतस्सप्तदशं स्तोममसृजत जगतीं छन्दो वामदेव्यं साम विश्वान्देवान्देवतां वैश्यं मनुष्यं गां पशुम् ।

तस्माद्वैश्यो जगतीछन्दा वैश्वदेवो देवतया ।

तस्मादु प्रजनिष्णुः ।

उदराद्ध्येनं प्रजननादसृजत ।

सोऽकामयत प्रैव जायेयेति ।

स पद्भ्यामेव प्रतिष्ठाया एकविंशं स्तोममसृजतानुष्टुभं छन्दो यज्ञायज्ञीयं साम न कां चन देवतां शूद्रं मनुष्यस्मविं पशुम् ।

तस्माच्छूद्रो ऽनुष्टुप्छन्दा वेश्मपतिदेवः ।

तस्मादु पादावनेज्येनैव जिजीविषति ।

पद्भ्यां ह्येनं प्रतिष्ठाया असृजत ।

एतया वै सृष्ट्या प्रजापतिः प्रजा असृजत ।

स य एतदेवं वेद भूमानमेव प्रजया पशुभिर्गच्छति ।

तस्माद्वेतं यज्ञं भूयिष्ठं प्रशंसन्ति यदग्निष्टोमम् ।

प्रजापतियज्ञो ह्येषः ६९