०६७

अस्थूरिर्वा एष यज्ञः पुरुषसम्मितः ।

यत्काम एनमाहरते समस्मै काम ऋध्यते ।

अस्थूरिणा हि तत्र गच्छति यत्र जिगमिषति ।

प्रजापतिर्यत्प्रजा असृजत ता अग्निष्टोमेनासृजत ।

दशमेन च वै स ता अग्निष्टोमस्य स्तोत्रेणासृजत दशमेन च मासा संवत्सरस्य ।

ता द्वादशेन चैवाग्निष्टोमस्य स्तोत्रेण पर्यगृह्णाद्द्वादशेन च मासा संवत्सरस्य ।

तस्मात्पशवो दशमासो गर्भान्बिभ्रति ।

त एकादशमनुप्रजायन्ते ।

न का चन द्वादशमतिहरति ।

परिगृहीता हि तेन ।

तासां परिगृहीतानामश्वतरोऽत्यप्रवत ।

तस्यानुहाय रेत आदत्त ।

तद्गर्दभे न्यमार्ट्तद्बडबायां तत्पशुषु तदोषधीषु ।

तस्माद्गर्दभो द्विरेतास्तस्माद्बडबा द्विरेताः ।

तस्मात्पशवो द्वौ द्वौ जनयन्ति ।

तस्मादोषधयोऽनभ्यक्ता रेभन्ति ।

तस्मादश्वतरो बर्हिषि न देयः ।

अति ह्यप्लवताप ह्यक्रामत् ।

आत्तरेता ह्यप्रजा हि ।

षोडशिनस्स्तोत्रे देयः ।

अतिरिक्तो वै षोडशि स्तोत्राणामतिरिक्तोऽश्वतरः पशूनाम् ।

अतिरिक्त एवा तदतिरिक्तं दधति यज्ञस्य सलोमतायै ।

स य एवं विद्वानग्निष्टोमेनोद्गायति प्राजाताः प्रजा जनयति परि प्रजाता गृह्णाति ।

ज्येष्ठयज्ञो वा एष प्रजापतियज्ञो यदग्निष्टोमः ।

अश्नुते ज्यैष्ठ्यं श्रैष्ठ्यं य एवं वेद ६७