०६६

अग्निष्टोम

प्रजननं ज्योतिरग्निर्देवतानां ज्योतिर्विराट्छन्दसां ज्योतिर्विराड्वाचः ।

अग्नौ सन्तिष्ठते ।

विराजं सम्पद्यते ।

तस्मादेष ज्योतिरुच्यते ।

द्वौ स्तोमौ प्रातस्सवनं वहतो यथा चक्षुश्च प्राणश्च तथा तत् ।

द्वौ स्तोमौ माध्यन्दिनं सवनं वहतो यथा च श्रोत्रं च बाहू च तथा तत् ।

द्वौ स्तोमौ तृतीयसवनं वहतो यथा मध्यं च प्रतिष्ठा च तथा तत् ।

हिङ्कारेण वै ज्योतिषा देवास्त्रिवृते ब्रह्मवर्चसाय ज्योतिरदधुः ।

त्रिवृता ब्रह्मवर्चसेन पञ्चदशायौजसे वीर्याय ज्योतिरदधुः ।

पञ्चदशेनौजसा वीर्येण सप्तदशाय प्रजायै पशुभ्यः प्रजननाय ज्योतिरदधुः ।

सप्तदशेन प्रजया पशुभिः प्रजनेनैकविंशाय प्रतिष्ठायै ज्योतिरदधुः ।

स्तोमो वा एतत्स्तोमे ज्योतिर्दधदेति ।

तस्माज्ज्योतिष्टोम इत्याख्यायते ।

अथ यत्स्तोमस्स्तोमं सवनमभिप्रणयति तस्माज्ज्योतिष्टोम इत्याख्यायते ।

अथो यद्यज्ञस्संस्तुतो विराजमभिसम्पद्यते ज्योतिर्विराट्तस्माज्ज्योतिष्टोम इत्याख्यायते ६६