०६५

मा नो अस्मिन्महाधने परा वर्ग्भारभृद्यथा

सं वर्गं सं रयिं जय

इति ।

अथ याज्या

परस्या अधि संवतो अवरं अभ्या तर

यत्राहमस्मि तं अव

इति ।

अथो हैनया यद्भ्रातृव्यस्य संविवृक्षेत तत्कामो यजेत ।

क्षिप्रे हैवास्य संवृङ्क्ते ।

अथो खल्वाहुर्यदग्नावग्निमभ्युद्धरेत्किं तत्र कर्म का प्रायश्चित्तिरिति ।

अग्नयेऽग्निमत इष्टिं निर्वपेत् ।

एता एव पञ्चदश सामिधेनीर्वार्त्रघ्नावाज्यभागौ विराजौ संयाज्ये ।

अथैते याज्यापुरोनुवाक्ये

अग्निनाग्निस्समिध्यते कविर्गृहपतिर्युवा

हव्यवाड्जुह्वास्यः

इति ।

अथ याज्या

त्वं ह्यग्ने अग्निना विप्रो विप्रेण सन्सता

सखा सख्या समिध्यसे

इति ।

अथो हैनया ब्रह्मवर्चसकामो यजेत ।

तेजस्वी हैव ब्रह्मवर्चसी भवति ।

अथो खल्वाहुर्यदाहवनीयगार्हपत्यौ संसृज्येयातां किं तत्र कर्म का प्रायश्चित्तिरिति ।

अग्नये वीतय इष्टिं निर्वपेत् ।

एता एव पञ्चदश सामिधेनीर्वार्त्रघ्नावाज्यभागौ विराजौ संयाज्ये ।

अथैते याज्यापुरोनुवाक्ये

अग्न आ याहि वीतये गृणानो हव्यदातये

नि होता सत्सि बर्हिषि

इति ।

अथ याज्या

यो अग्निं देववीतये हविष्ममाविवासति

तस्मै पावक मृडय

इति ।

तस्मै पावक मृडय इति ६५