यदग्नयस्संसृज्येरन्किं तत्र कर्म का प्रायश्चित्तिरिति ।
स यदि परस्तादन्योऽभिदहन्नेयात्स विद्यात्परस्तान्मा शुक्रमागात्प्रजातिर्मे भूयस्यभूच्छ्रेयान्भविष्यामीति ।
तथा हैव स्यात् ।
यदि त्वस्य हृदयं विलिखेदग्नये विविचय इष्टिं निर्वपेत् ।
एता एव पञ्चदश सामिधेनीर्वार्त्रघ्नावाज्यभागौ विराजौ संयाज्ये ।
अथैते याज्यापुरोनुवाक्ये
वि ते विष्वग्वातजूतासो अग्ने भामासश्शुचे शुचयश्चरन्ति
तुविम्रक्षासो दिव्या नवग्वा वना वनन्ति धृषता रुजन्तः
इति ।
अथ याज्या
त्वामग्ने मानुषीरीळते विशो होत्राविदं विविचिं रत्नधातमम्
गुहा सन्तं सुभग विश्वदर्शतं तुविष्मणसं सुयजं
घृतश्रियम्
इति ।
अथो हैनया पाप्मना व्यावृत्स्यमानो यजेत ।
क्षिप्रे हैव पाप्मनो व्यावर्तते ।
यदि त्वयमितोऽभिदहन्नेयादग्नये संवर्गायेष्टिं निर्वपेत् ।
एता एव पञ्चदश सामिधेनीर्वार्त्रघ्नावाज्यभागौ विराजौ संयाज्ये अथैते याज्यापुरोनुवाक्ये ६४