अभ्युदीयात्किं तत्र कर्म का प्रायश्चित्तिरिति ।
एतस्माद्ध वै विश्वे देवा अपक्रामन्ति यस्याहवनीयमनुद्धृतमभ्युदेति ।
स दर्भेण रजतं हिरण्यं प्रबध्य पुरस्ताद्धरेत् ।
तच्चन्द्र मसो रूपं क्रियते ।
रात्रेर्वा एतद्रू पम् ।
तद्रा त्रे रूपं क्रियते ।
अथेध्ममादीप्यान्वञ्चं हरेयुः ।
तमुपसमाधाय चतुर्गृहीतमाज्यं गृहीत्वा विश्वेभ्यो देवेभ्यस्स्वाहा इति जुहुयात् ।
यत्र वै दीप्तं तत्रैतदिह गार्हपत्य इत्येव विद्वानुद्धरेत् ।
असावेव बन्धु ।
अथ हैक आहुरेते ह वै स्वर्गं लोकं पश्यन्तो जुह्वति य आदित्यमिति ।
स यो वा त्वै गतश्रीस्स्याद्यो वास्माल्लोकात्क्षिप्रे प्रजिगांसेत्स उदितहोमी स्यादथो खल्वाहुः ६३