०६१

यदग्नयोऽनुगच्छेयुः किं तत्र कर्म का प्रायश्चित्तिरिति ।

तमु हैक उल्मुकादेव निर्मन्थन्ति ।

यतो वै मनुष्यस्यान्ततो नश्यति ततो वाव स तस्य प्रायश्चित्तिमिच्छत इति वदन्तः ।

तदु तथा न विद्यात् ।

उल्मुकं ह्येव तत आदाय चरेदुल्मुकस्य वावव्रश्चम् ।

इत्थमेव कुर्यात् ।

उल्मुकादेवापच्छिद्यारण्योरभिविमन्थत् ।

उपाह तं काममाप्नोति य उल्मुकमथ्य उपो तं योऽरण्योः ।

अथो खल्वाहुर्यदाहवनीय उद्धृतोऽनुगच्छेत्किं तत्र कर्म का प्रायश्चित्तिरिति ।

अननुगतो वा एष तावद्भवति यावद्गार्हपत्यो नानुगच्छति ।

स यद्यपि बह्विव कृत्वोऽनुगच्छेत्पुनःपुनरेवैनमुद्धरेत् ।

एतदेवात्र कर्म ।

अथो खल्वाहुर्यदाहवनीय उद्धृते गार्हपत्योऽनुगच्छेत्किं तत्र कर्म का प्रायश्चित्तिरिति ।

तमु हैके तत एव प्राञ्चमुद्धरन्ति ।

तदु तथा न कुर्यात् ।

यो ह तत्र ब्रूयात्प्राचो न्वा अयं यजमानस्य प्राणान्प्रावृक्षन्मरिष्यत्ययं यजमान इति तथा हैव स्यात् ।

तमु हैके तत एव प्रत्यञ्चमाहरन्ति ।

प्राणो वै गृहपत्योऽपान आहवनीयः ।

संविदानौ वा इमौ प्राणापानावन्नमत्त इति वदन्तः ।

अथो गृहो वै गृहपत्यः ।

प्रतिष्ठो वै गृहाः ।

स य एनं तत्र ब्रूयात्प्र न्वा अयमस्यै प्रतिष्ठाया अच्योष्ट मरिष्यत्ययं यजमान इति तथा हैव स्यात् ।

तमु हैके गार्हपत्य एव मथित्वोपसमादधति ।

तदु तथा न कुर्यात् ।

यो ह तत्र ब्रूयादग्नावध्यग्निमजीजनत्क्षिप्रेऽस्य द्विषन्भ्रातृव्यो जनिष्यत इति तथा हैव स्यात् ।

तमु हैकेऽनुगमय्य मन्थन्ति ।

तदु तथा न कुर्यात् ।

यो ह तत्र ब्रूयादपि यत्परिशिष्टमभूत्तदजीजसन्नास्य दायादश्चन परिशेक्ष्यत इति तथा हैव स्यात् ।

इत्थमेव कुर्यात् ।

अरण्योरेव समारोहयेत

अयं ते योनिरृत्वियो यतो जातो अरोचथाः

तं जानन्नग्न आरोहाथा नो वर्धया रयिमथा वर्धया गिरः

इति वा ।

स उदवसाय जुह्वद्वसेत् ।

नवावसाने हास्योभयतोरात्रं हुतं भवति नो कां चन परिचक्षां कुरुते ।

स प्रातर्भस्मोद्धृत्य शकृत्पिण्डेन परिलिप्य यथायथमग्नीनादधीत ।

एतदेवात्र कर्म अथो खल्वाहुर्यदाहवनीयमनुद्धृतम् ६१