तदाहुर्यदेतस्य दीर्घसत्त्रिणोऽग्निहोत्रं जुह्वतोऽग्निहोत्रीवत्सो नश्येत्किं तत्र कर्म का प्रायश्चित्तिरिति ।
तदु होवाचारुणिर्द्यौर्वा अग्निहोत्री तस्या आदित्य एव वत्स इयमेवाग्निहोत्रस्थाली ।
न ह वा एवंविदोऽग्निहोत्रीवत्सो नश्यति ।
क्व ह्येष नश्येत् ।
नो वा एवंविदोऽग्निहोत्रं दुह्यमानं स्कन्दति ।
अस्यां ह्येवं प्रतितिष्ठति ।
नो वा एवंविदोऽग्निहोत्री दुह्यमानोपविशति ।
यदा वा एषा सुवृष्टं वर्षत्यभिनिषद्येव बतावर्षीदित्येनामाहुः ।
अथो खल्वाहुर्यदेषा लोहितं दुहीत किं तत्र कर्म का प्रायश्चित्तिरिति ।
अवृत्तिं वा एषा यजमानस्य पाप्मानं प्रतिदृश्य दुहे या लोहितं दुहे ।
स व्युत्क्रामतेऽत्युक्त्वान्वाहार्यपचनं परिच्छादयितवै ब्रूयात् ।
तदधिश्रित्य मेक्षणं कृत्वा श्रपयेत् ।
तत्तदेव तूष्णीं निनयेत् ।
अनिरुक्तो वै प्रजापतिः ।
प्राजापत्यमग्निहोत्रम् ।
अथो भूर्भुवं स्वरित्येताभिर्व्याहृतिभिः ।
एता वै व्याहृतयस्सर्वप्रायश्चित्तयः ।
तदनेन सर्वेण प्रायश्चित्तिं कुरुते अथो खल्वाहुः ६०