तदाहुर्यदेतस्य दीर्घसत्त्रिणोऽग्निहोत्रं जुह्वतोऽग्निहोत्री दुह्यमानोपविशेत्किं तत्र कर्म का प्रायश्चित्तिरिति ।
तामु हैके यजुषोत्थापयन्ति ।
अवृत्तिं वा एषा यजमानस्य पाप्मानं प्रतिदृश्योपविशति यस्याग्निहोत्री दुह्यमानोपविसति ।
तामुत्थापयन्ति उदस्थाद्देव्यदितिः इति ।
इयं वै देव्यदितिः ।
इमामेवास्मै तदुत्थापयन्ति ।
आयुर्यज्ञपतावधादित्यायुरेवास्मिंस्तद्दधति ।
मित्राय वरुणाय च इति प्राणापानौ न्वै मित्रावरुणौ प्राणापानावेवास्मिंस्तद्दधति ।
तां तस्यामेवाहुतौ हुतायां ब्राह्मणाय ददति ।
यं संवत्सरमनभ्यागमिष्यन्तो भवन्त्यवृत्तिमस्मिन्पाप्मानं निवेशयाम इति वदन्तः ५८