\यत्प्रागुद्द्रुतममेध्यमापद्येत किं तत्र कर्म का प्रायश्चित्तिरिति ।
तदु हैके होतव्यमेव मन्यन्ते प्रेतमेतन्नैतस्याहोमः कल्पत इति वदन्तः ।
अथ हैकेऽद्भिरभ्यासिच्य परासिञ्चन्ति ।
तदु तथा न कुर्यात् ।
यो ह तत्र ब्रूयात्पराङ्वा अयमिदमग्निहोत्रमसिञ्चत्परासेक्ष्यतेऽयं यजमान इति तथा हैव स्यात् ।
इत्थमेव कुर्यात् ।
आहवनीय एव समिधमभ्याधायाहवनीयस्यैवोष्णं भस्म निरूह्य तस्मिन्नेनत्तूष्णीं निनयेत् ।
तन्न हुतं नाहुतम् ।
अद्भिरनुनिनयेत् ।
अद्भिरेवैनदाप्नोति ।
अथ यदन्यद्विन्देत्तेन जुहुयात् ।
अथो खल्वाहुर्यदववर्षेत्किं तत्र कर्म का प्रायश्चित्तिरिति ।
स विद्यादुपरिष्टान्मा शुक्रमागात्प्रजातिर्मे भूयस्यभूच्छ्रेयान्भविष्यामीति ।
तथा हैव स्यात् ।
अथो खल्वाहुर्यत्पूर्वस्यामाहुतौ हुतायामङ्गारा अनुगच्छेयुः क्वोत्तरां जुहुयादिति ।
य एव तत्र शकलोऽन्तिकस्स्यात्तमध्यस्य जुहुयात् ।
दारौदारौ ह्यग्निः ।
स यदि तस्यां न तिष्ठेद्धिरण्यमभिजुहुयात् ।
अग्नेर्वा एतद्रे तो यद्धिरण्यम् ।
य उ वै पिता स पुत्रः ।
तस्माद्धिरण्यमभिजुहुयादथो खल्वाहुः ५६