तदाहुर्यदेतस्य दीर्घसत्त्रिणोऽग्निहोत्रं जुह्वतोऽग्निहोत्रं दुह्यमानममेध्यमापद्येत किं तत्र कर्म का प्रायश्चित्तिरिति ।
तदु हैके होतव्यमेव मन्यन्ते न वै देवाः कस्माच्चन बीभत्सन्त इति वदन्तः ।
तदु तथा न विद्यात् ।
पुरुषो न्वेव बीभत्सेयाद्बीभत्सते बीभत्सान्ता३इदु देवाः ।
इत्थमेव कुर्यात् ।
गार्हपत्यस्यैवोष्णं भस्म निरूह्य तस्मिन्नेनत्तूष्णीं निनयेत् ।
तन्न हुतं नाहुतम् ।
अद्भिरनुनिनयेत् ।
अद्भिरेवैनदाप्नोति ।
अथ यदन्यद्विन्देत्तेन जुहुयात् ।
अथो खल्वाहुर्यद्दुग्धममेध्यमापद्येत किं तत्र कर्म का प्रायश्चित्तिरिति ।
येष्वेवाङ्गारेष्वधिश्रयिष्यन्स्यात्तानेव प्रत्यूह्य तेष्वेवैनत्तूष्णीं निनयेत् ।
तन्न हुतं नाहुतम् ।
अद्भिरनुनिनयेत् ।
अद्भिरेवैनदाप्नोति ।
अथ यदन्यद्विन्देत्तेन जुहुयात् ।
अथो खल्वाहुर्यदधिश्रितममेध्यमापद्येत किं तत्र कर्म का प्रायश्चित्तिरिति ।
येष्वेवाङ्गारेष्वधिश्रितं स्यात्तानेव प्रत्यूह्य तेष्वेवैनत्तूष्णीं निनयेत् ।
तन्न हुतं नाहुतम् ।
यदहैनत्तेषु निनयति तेन हुतं यद्वेनांस्तेनो एवानुगमयति तेनो अहुतम् ।
अद्भिरनुनिनयेत् ।
अद्भिरेवैनदाप्नोति ।
अथ यदन्यद्विन्देत्तेन जुहुयादथो खल्वाहुः ५५