०५३

तदाहुर्यदेतस्य दीर्घसत्त्रिणोऽग्निहोत्रं जुह्वतोऽग्निहोत्रं दुह्यमानं स्कन्देत्किं तत्र कर्म का प्रायश्चित्तिरिति ।

यदेव तत्र स्थाल्यां परिशिष्टं स्यात्तेन जुहुयात् ।

यद्यु नीची स्थाली स्यादपि वा भिद्येत किं तत्र कर्म का प्रायश्चित्तिरिति ।

स्कन्नप्रायश्चित्त्यै वाभिमृश्य अस्कन्नधित इति ।

अथ यदन्यद्विन्देत्तेन जुहुयात् ।

यदा वै स्कन्दत्यथ धीयते ।

रेतो वै पयो योनिरियम् ।

योन्यामेवैतद्रे तः प्रतिष्ठापयति ।

अनुष्ठ्यास्य रेतस्सिक्तं प्रजायते य एवं वेद ।

अमुतो वै पर्जन्यस्स्कन्दतीहौषधयो वनस्पतयो जायन्ते ।

पुरुषाद्रे तस्स्कन्दति पशुभ्यः ।

तत इदं सर्वं प्रजातम् ।

स विद्यादुप मा देवाः प्राभूवन्प्रजातिर्मे भूयस्यभूच्छ्रेयान्भविष्यामीति ।

तथा हैव स्यात् ।

अथो यत्रैतद्विभिन्नं तदुदपात्रं वैवोदकमण्डलुं वोपनिनयेद्भूर्भुवस्स्वः इत्येताभिर्व्याहृतिभिः ।

एता वै व्याहृतयस्सर्वप्रायश्चित्तयः ।

तदनेन सर्वेण प्रायश्चित्तिं कुरुते ५३