दीर्घसत्त्रं ह वा एत उपयन्ति येऽग्निहोत्रं जुह्वति ।
एतद्ध वै सत्त्रं जरामूरीयम् ।
जरया वा ह्येवास्मान्मुच्यते मृत्युना वा ।
तदाहुर्यदेतस्य दीर्घसत्त्रिणोऽग्निहोत्रं जुह्वतोऽग्नीनन्तरेण युक्तं वा वियायात्सं वा चरेयुः किं तत्र कर्म का प्रायश्चित्तिरिति ।
वज्रो वै चक्रः ।
वज्रो वा एतस्याग्नीनन्वेति यस्यान्तरेण युक्तं वा वियाति सं वा चरन्ति ।
कुर्वीत हैव निष्कृतिमपि हेष्ट्या यजेत ।
तदु तथा न विद्यात् ।
इमान्वा एष लोकाननुवितनुते योऽग्नीनाधत्ते ।
तस्यायमेव लोको गार्हपत्यो भवत्यन्तरिक्षलोकोऽन्वाहार्यपचनोऽसावेव लोक आहवनीयः ।
कामं वा एषु लोकेषु युक्तं चायुक्तं च वयांसि सञ्चरन्ति ।
स विद्याद्यदि मेऽपि ग्राम एवाग्नीनन्तरेणायासीन्नैव म आर्तिरस्ति न रिष्टिः काचनेति ।
त्रयो ह त्वै ग्राम्याः पशवोऽजुष्टा दुर्वराह एडकश्श्वा ।
तेषां यदि कश्चिदन्तरेण समेजयेत किं तत्र कर्म का प्रायश्चित्तिरिति ५१