०५०

तं प्रतिब्रूयात्

विचक्षणादृतवो रेत आभृतम्

अर्धमास्यं प्रसुतात्पित्र्यावतः

इति ।

यददो विचक्षणं सोमं राजानं जुह्वति तत्तत् ।

तं मा पुंसि कर्तर्येरयध्वम्

इति ।

पुंसि ह्येनमेतत्कर्तर्येरयन्ते ।

पुंसः कर्तुर्मातर्यासिषिक्त

इति ।

मातरि ह्येनमासिञ्चति ।

स उपजायोपजायमानस्त्रयोदशेन द्वादशोपमासः

इति ।

एष त्रयोदशो य एष तपति ।

सं तद्विदे प्रति तद्विदेऽहम्

तं मर्तवोऽमृत आनयध्वं द्वादशत्रयोदशेन पित्रा

तया मात्रा तया श्रद्धया तेनान्नाद्येन तेन सत्येन

अहर्मे पिता रात्रिर्माता सत्यमस्मि

तं मर्तवोऽमृत आनयध्वम्

इति ।

तं हर्तव आनयन्ते ।

यथा विद्वान्विद्वांसं यथा जानञ्जानन्तमेवं हैनमृतव आनयन्ते ।

तं हात्यर्जयन्ते ।

स हैष न मनुष्यो य एवं वेद ।

देवानां ह वै स एको य एवंवित् ।

तं ह वै मनोजवसः पितरश्च पितामहाश्च प्रत्यागच्छन्ति ततः किं न आहार्षीरिति ।

तान्प्रतिब्रूयाद्यत्किं च पुण्यमकरं तद्युष्माकमिति ।

तस्य पुत्रा दायमुपयन्ति पितरस्साधुकृत्यां द्विषन्तः पापकृत्याम् ।

स एवमेतत्त्रेधा विभज्यैतस्य सलोकतामप्येति य एष तपति ५०