०४९

अथैतामनुस्तरणीमानयन्ति ।

ताम्प्रोक्ष्य त्रिरपसली पर्याणाय्य कूटेन हन्यात् ।

प्रदक्षिणं हैके पर्याणयन्ति ।

तदु तथा न कुर्यात् ।

तस्यै वस्पामुत्खिद्य शीर्ष्णि परिव्ययन्ति ।

हस्तयोर्मतस्नी हृदये हृदयं बाह्वोर्बाहू ।

यथाङ्गमेवेतराण्यङ्गानि विचिन्वन्ति ।

अथैनं चर्मणा प्रोर्ण्वन्ति स्वया तन्वा समृध्यस्व इति ।

संस्तीर्योपादीपयन्ति ।

स तथैव चिकीर्षेद्यथैनमाहवनीयः प्रथमो गच्छेत् ।

तदेनं देवलोकः प्रत्यागच्छति ।

अथ यथान्वाहार्यपचनस्तदेनं पितृलोकः प्रत्यागच्छति ।

अथ यथा गार्हपत्यस्तथास्मिल्ँ लोके प्रजया च पशुभिश्च प्रतितिष्ठति ।

तस्योपादीप्तस्य धूम एव शरीरं धुनोति ।

स यद्धुनोति तस्माद्धुनः ।

धुनो ह वै नामैशः ।

तं धूम इति परोक्षमाचक्षते परोक्षेणैव ।

परोक्षप्रिया इव हि देवाः ।

धूमाद्वै रात्रिमप्येति रात्रिया अहरह्नोऽपोच्छन्तीपक्षमपोच्छन्तीपक्षादापूर्यमाणपक्षमापूर्यमाणपक्षान्मासम् ।

ते अत्र मासे शरीरं चासुश्च सङ्गच्छाते ।

तं हर्तूनामेको यः कूटहस्तो रश्मिना प्रत्यवेत्य पृच्छति कोऽसि पुरुषेति ४९