०४७

अथास्यां दिशि कूपं खात्वा वपन्ति केशश्मश्रूणि ।

उप्त्वा केशश्मश्रूणि नखान्निकृन्तन्ति ।

नखान्निकृत्य निरान्त्रं कुर्वन्ति ।

निरान्त्रं कृत्वा निष्पुरीषं कुर्वन्ति ।

निष्पुरीषं कृत्वा पांसुभिः कूपे पुरीषमभिसंवपन्ति ।

पाप्मानमेवास्य तत्प्रच्छादयन्ति ।

प्रक्षाल्यात्राणि प्रत्यवधायैनमाहरन्ति ।

तमन्तरेणाग्नी निधाय गार्हपत्य आज्यं विलाप्योत्पूय चतुर्गृहीतं गृहीत्वा गत्वाहवनीये समिद्वत्यन्वारब्धे जुहोति अयं वै त्वदस्मादसि त्वमेतद् ।

अयं ते योनिरस्य योनिस्त्वम् ।

पिता पुत्राय लोककृज्जातवेदः ।

नयास्येनं सुकृतां यत्र लोकः ।

अस्माद्वै त्वमजायथा एष त्वज्जायतां स्वाहा इति ।

सोऽत आहुतिमयो मनोमयः प्राणमयश्चक्शुर्मयश्श्रोत्रमयो वाङ्मय ऋङ्मयो यजुर्मयस्साममयो ब्रह्ममयो हिरण्मयोऽमृतस्सम्भवति ४७