०४६

\तस्याग्निर्वैश्वानरः ।

तस्यौषधयश्च वनस्पतयश्च समित् ।

ज्योतिरेव ज्योतिः ।

धूम एव धूमः ।

विष्फुलिङ्गा एव विष्फुलुङ्गाः ।

अङ्गारा एवाङ्गाराः ।

तस्मिन्नेतस्मिन्नग्नौ वैश्वानरेऽहरहर्देवा पुरुषं जुह्वति ।

तस्या आहुतेर्हुतायै पुरुषोऽमुं लोकं सम्भवति ।

सोऽस्य लोकः पुनरुत्थायै भवति ।

तस्य हैतस्य देवस्याहोरात्रे अर्धमासा मासा ऋतवस्संवत्सरो गोप्ता य एष तपति ।

अहोरात्रे प्रचरे ।

तं हर्तूनामेको यः कूटहस्तो रश्मिना प्रत्यवेत्य पृच्छति कोऽसि पुरुषेति ।

स किं विद्वान्प्रवृञ्ज्यात् ।

तस्य ह प्रहरति ।

तस्य ह प्रतिराद्धस्य त्रेधा साधुकृत्या विनश्यति ।

स तृतीयमादत्ते ।

दिशोऽनु तृतीय व्येति ।

तृतीयेन सहेमं लोकमभ्यवैति ।

स यो हास्य दानजितो लोको भवति तस्मिन्निरमते ।

तमु ह वै ततो मृत्युरेवान्तत आप्नोति ।

अनवजितो हास्य पुनर्मृत्युर्भवति स य एवंवित्स्यात् ।

स यदोपतापी स्याद्यत्रास्य समं सुभूमि स्पष्टं स्यात्तद्ब्रूयादिह मेऽग्निं मन्थतेति ।

ईश्वरो हागदो भवितोः ।

यद्यु तन्न यदस्माल्लोकात्प्रेयादथैनमाददीरन् ।

नानास्थाल्योरग्नी ओप्य हरेयुरन्वाहार्यपचनादुल्मुकम् ।

आददीरन्यज्ञपात्राणि सर्पिरपो दारूण्यनुस्तरणीं क्षुरं नखनिकृन्तनम् ।

ते यन्ति यत्रास्य समं सुभूमि स्पष्टं भवति ।

तदस्याग्नीन्विहरन्ति ४६