एष वा अग्निर्वैश्वानरो य एष तपति ।
तस्य रात्रिस्समिदहर्ज्योती रश्मयो धूमो नक्षत्राणि विष्फुलिङ्गाश्चन्द्र मा अङ्गाराः ।
तस्मिन्नेतस्मिन्नग्नौ वैश्वानरेऽहरहर्देवा अमृतमपो जुह्वति ।
तस्या आहुतेर्हुतायै सोमो राजा सम्भवति ।
स्तनयित्नुरेवाग्निर्वैश्वानरः ।
तस्य द्यौस्समिद्विद्युज्ज्योतिरभ्राणि धूमो मरीचयो विष्फुलिङ्गा अशनिरङ्गाराः ।
तस्मिन्नेतस्मिन्नग्नौ वैश्वानरेऽहरहर्देवास्सोमं राजानं जुह्वति ।
तस्या आहुतेर्हुतायै वृष्टिस्सम्भवति ।
पृथिव्येवाग्निर्वैश्वानरः ।
तस्यान्तरिक्षं समिदग्निर्ज्योतिर्वायुर्धूमो मरीचयो विष्फुलिङ्गा दिशोऽङ्गाराः ।
तस्मिन्नेतस्मिन्नग्नौ वैश्वानरेऽहरहर्देवा वृष्टिं जुह्वति ।
तस्या आहुतेर्हुताया अन्नं सम्भवति ।
पुरुष एवाग्निर्वैश्वानरः ।
तस्य वाक्समिच्चक्षुर्ज्योतिः प्राणो धूमो मनोऽभिनन्दो विष्फुलिङ्गाश्श्रोत्रमङ्गाराः ।
तस्मिन्नेतस्मिन्नग्नौ वैश्वानरेऽहरहर्देवा अन्नं जुह्वति ।
तस्या आहुतेर्हुतायै रेतस्सम्भवति ।
स्त्र्येवाग्निर्वैश्वानरः ।
तस्योपस्थं समिद्योनिर्ज्योतिरिष्या धूमोऽभिनन्दो विष्फुलिङ्गास्संस्पर्शोऽङ्गाराः ।
तस्मिन्नेतस्मिन्नग्नौ वैश्वानरेऽहरहर्देवा रेतो जुह्वति ।
तस्या आहुतेर्हुतायै पुरुषस्सम्भवति ।
सोऽत्र पञ्चम्यां विसृष्ट्यां पुरुषो देवेभ्यो जायते ।
पञ्चम्यां दिव्या आपः पुरुषवाचो वदन्ति अथ यदामुं लोकमप्येति ४५