किं पञ्चममिति ।
लोहितकुल्यां च घृतकुल्यां च प्रबाहुक्स्यन्दमाने ।
सा या लोहितकुल्याभूत्तां कृष्णो नग्नः पुरुषो मुसली जुगोप ।
अथ या घृतकुल्या तस्यै हिरण्मयाः पुरुषा हिरण्मयैश्चमसैस्सर्वान्कामानुदचन्त इति ।
ओमिति होवाच ।
ये वा अस्मिल्ँ लोकेऽग्निहोत्रं जुह्वतो नैवंविदो ब्राह्मणस्य लोहितमुत्पीडयन्ति सा सा लोहितकुल्या ।
अथ य एनां कृष्णो नग्नः पुरुषो मुसल्यजूगुपत्क्रोधस्स तस्यो तदेवान्नमिति ।
तस्य का निष्कृतिरिति ।
यदेवैतत्स्रुचा प्राश्नाति सा तस्य निष्कृतिस्तया तदतिमुच्यत इति ।
अथ या एतां स्रुचं निर्णिज्योदीचीरप उत्सिञ्चति सा सा घृतकुल्या ।
तस्यै हिरण्मयाः पुरुषा हिरण्मयैश्चमसैस्सर्वान्कामानुदचन्त इति ।
किं षष्ठमिति ।
पञ्च नदीः पुष्करिणीः पुण्डरीकिणीर्मधूदकास्स्यन्दमानाः ।
तासु नृत्तगीतं वीणाघोषोऽप्सरसां गणास्सुरभिर्गन्धो महान्घोषोऽभूदिति ।
ओमिति होवाच ।
ममैवैते लोका अभूवन्निति ।
ते केनाभिजय्या इति ।
एतेनैव पञ्चगृहीतेन पञ्चोन्नीतेनेति ।
स होवाच न वै किलान्यत्राग्निहोत्राल्लोकजित्या अवकाशोऽस्ति ।
अद्यैव मे अग्न्याधेयस्योपवसथ इति ।
तस्य ह तथा चक्रुः ।
स य एवं विद्वानग्निहोत्रं जुहोति नैनममुष्मिल्ँ लोके वनस्पतयः पुरुषरूपं कृत्वा प्रत्यदन्ति न पशवो न व्रीहियवा नास्येष्टापूर्ते श्रद्धां चाश्रद्धां च गच्छतोऽपहते लोहितकुल्यामवरुन्द्धे घृतकुल्याम् ४४