०४३

स ह तत एवाववृते ।

स ह वरुणमेवाजगाम ।

तं होवाचागास्ताता३इति ।

आगां ततेति ।

अदर्शस्ताता३इति ।

अदर्शं ततेति ।

किं ताता३इति ।

पुरुष एव पुरुषं संवृश्च्याथैनमघदिति ।

ओमिति होवाच ।

ये वा अस्मिल्ँ लोकेऽग्निहोत्रं जुह्वतो नैवंविदो वनस्पतीन्संवृश्च्याभ्यादधति तान्वा अमुष्मिल्ँ लोके वनस्पतयः पुरुषरूपं कृत्वा प्रत्यदन्ति ।

तस्य का निष्कृतिरिति ।

यदेवैतत्समिधमभ्यादधाति सा तस्य निष्कृतिस्तया तदतिमुच्यत इति ।

किं द्वितीयमिति ।

पुरुष एव पुरुषमाक्रन्दयन्तमघदिति ।

ओमिति होवाच ।

ये वा अस्मिल्ँ लोकेऽग्निहोत्रं जुह्वतो नैवंविदः पशूनाक्रन्दयतः पचन्ते तान्वा अमुष्मिल्ँ लोके पशवः पुरुषरूपं कृत्वा प्रत्यदन्ति ।

तस्य का निष्कृतिरिति ।

यदेवैतद्वाचा पूर्वामाहुतिं जुहोति सा तस्य निष्कृतिस्तया तदतिमुच्यत इति ।

किं तृतीयमिति ।

पुरुष एव पुरुषं तूष्णीं व्याहरन्तमघदिति ।

ओमिति होवाच ।

य वा अस्मिल्ँ लोकेऽग्निहोत्रं जुह्वतो नैवंविदो व्रीहियवांस्तूष्णीं व्याहरतः पचन्ते तान्वा अमुष्मिल्ँ लोके व्रीहियवाः पुरुषरूपं कृत्वा प्रत्यदन्ति ।

तस्य का निष्कृतिरिति ।

यदेवैतन्मनसोत्तरामाहुतिं जुहोति सा तस्य निष्कृतिस्तया तदतिमुच्यत इति ।

किं चतुर्थमिति ।

द्वे स्त्रियौ महद्वित्तमजूगुपतामिति ।

ओमिति होवाच ।

श्रद्धा च वै ते अश्रद्धा चाभूताम् ।

ये वा अस्मिल्ँ लोकेऽग्निहोत्रं जुह्वतो नैवंविदोऽश्रद्दधाना यजन्ते तदश्रद्धां गच्छति यच्छ्रद्दधानास्तच्छ्रद्धाम् ।

तस्य का निष्कृतिरिति ।

यदेवैतद्द्विरङ्गुल्या प्राश्नाति सा तस्य निष्कृतिस्तया तदतिमुच्यत इति ४३