०४२

भृगुर्ह वारुणिरनूचान आस ।

स हात्येव पितरं मेनेऽति देवानत्यन्यान्ब्राह्मणाननूचानान् ।

स ह वरुण ईक्षां चक्रे न वै मे पुत्रः किं चन प्रजानाति ।

हन्तैनं प्रज्ञापयानीति ।

तस्य ह प्राणानभिजग्राह ।

स ह तताम ।

स ह तान्तः परं लोकं जगाम ।

स हामुष्मिल्ँ लोके आजगाम ।

पुरुष एव पुरुषं संवृश्च्याथैनं जघास ।

स होवाचाभूद्बतेदं किं स्विदिदमिति ।

तं होचुः पितरं वरुणं पृच्छासि स त इदं प्रवक्तेति ।

द्वितीयं हाजगाम ।

पुरुष एव पुरुषमाक्रन्दयन्तं जघास ।

स होवाचाभूद्बतेदं किं स्विदिदमिति ।

तं होचुः पितरं वरुणं पृच्छासि स ते इदं प्रवक्तेति ।

तृतीयं हाजगाम ।

पुरुष एव पुरुषं तूष्णीं व्याहरन्तं जघास ।

स होवाचाभूद्बतेदं किं स्विदिदमिति ।

तं होचुः पितरं वरुणं पृच्छासि स त इदं प्रवक्तेति ।

चतुर्थं हाजगाम ।

द्वे स्त्रियौ महद्वित्तं जुगुपतुः ।

स होवाचाभूद्बतेदं किं स्विदिदमिति ।

तं होचुः पितरं वरुणं पृच्छासि स त इदं प्रवक्तेति ।

पञ्चमं हाजगाम ।

लोहितकुल्यां च घृतकुल्यां च प्रबाहुक्स्यन्दमाने ।

सा या लोहितकुल्यास तां कृष्णो नग्नः पुरुषो मुसली जुगोप ।

अथ या घृतकुल्या तस्यै हिरण्मयाः पुरुषा हिरण्मयैश्चमसैस्सर्वान्कामानुदाचिरे ।

स होवाचाभूद्बतेदं किं स्विदिदमिति ।

तं होचुः पितरं वरुणं पृच्छासि स त इदं प्रवक्तेति ।

षष्ठं हाजगाम ।

पञ्च नदीः पुष्करिणीः पुण्डरीकिणीर्मधूदकास्स्यन्दमानाः ।

तासु नृत्तगीतं वीणाघोषोऽप्सरसां गणास्सुरभिर्गन्धो महान्घोषो बभूव ।

स होवाचाभूद्बतेदं किं स्विदिदमिति ।

तं होचुः पितरं वरुणं पृच्छासि स त इदं प्रवक्तेति ४२