अथोपमार्ष्टि ।
स यत्प्रथममुपमार्ष्टि तेन गन्धर्वाप्सरसः प्रीणाति ।
तं गन्धर्वाप्सरस आहुश्श्रद्धा ते मा विगात्सर्वैः कामैस्तृप्य स्वर्गं लोकमाप्नुहीति ।
अथ यद्द्वितीयमुपमार्ष्टि तेन ग्रहांश्च पितॄंश्च प्रीणाति ।
तं ग्रहाश्च पितरश्चाहुश्श्रद्धा ते मा विगात्सर्वैः कामैस्तृप्य स्वर्गं लोकमाप्नुहीति ।
अथ यद्द्विरङ्गुल्या प्राश्नाति स यत्प्रथमं प्राश्नाति तेन प्राणापानौ तृप्यतः ।
तं प्राणापानावाहतुश्श्रद्धा ते मा विगात्सर्वैः कामैस्तृप्य स्वर्गं लोकमाप्नुहीति ।
अथ यद्द्वितीयं प्राश्नाति तेनोदानापानौ तृप्यतः ।
तमुदानापानावाहतुश्श्रद्धा ते मा विगात्सर्वैः कामैस्तृप्य स्वर्गं लोकमाप्नुहीति ।
अथ यत्स्रुचा प्राश्नाति तेन समानव्यानौ च गर्भांश्च प्रीणाति ।
तं समानव्यानौ गर्भाश्चाहुश्श्रद्धा ते मा विगात्सर्वैः कामैस्तृप्य स्वर्गं लोकमाप्नुहीति ।
अथ यत्स्रुचं निरश्नाति तेन देवजनान्प्रीणाति ।
तं देवजना आहुश्श्रद्धा ते मा विगात्सर्वैः कामैस्तृप्य स्वर्गं लोकमाप्नुहीति ।
अथ यत्स्रुचस्सङ्क्षालनं निनयति तेन वयांसि प्रीणाति ।
तं वयांस्याहुश्श्रद्धा ते मा विगात्सर्वैः कामैस्तृप्य स्वर्गं लोकमाप्नुहीति ।
अथ या एतास्स्रुचो निर्णिज्योदीचीरप उत्सिञ्चति तेन ऋषीन्प्रीणाति ।
तमृषय आहुश्श्रद्धा ते मा विगात्सर्वैः कामैस्तृप्य स्वर्गं लोकमाप्नुहीति ।
अथ यत्स्थालीसङ्क्षालनं निनयति तेन सर्पजनान्प्रीणाति ।
तं सर्पजना आहुश्श्रद्धा ते मा विगात्सर्वैः कामैस्तृप्य स्वर्गं लोकमाप्नुहीति ।
अथ यत्पश्चाद्वा पुरस्ताद्वा परिक्रम्य दक्षिणतोऽग्नीनामास्ते प्रजापतिरेव तद्भूत्वास्ते कं अहमस्मि कं मम इति ४१