०४०

स यं प्रथमं स्रुवमुन्नयति तद्वै दर्शपूर्णमासयो रूपम् ।

दर्शपूर्णमासाभ्यामेवास्येष्टं भवति य एवं विद्वान्प्रथमं स्रुवमुन्नयति ।

अथ यं द्वितीयं स्रुवं तद्वै चातुर्मास्यानां रूपम् ।

चातुर्मास्यैरेवास्येष्टं भवति य एवं विद्वान्द्वितीयं स्रुवमुन्नयति ।

अथ यं तृतीयं स्रुवमुन्नयति तद्वा इष्टिपशुबन्धानां रूपम् ।

इष्टिपशुबन्धैरेवास्येष्टं भवति य एवं विद्वांस्तृतीयं स्रुवमुन्नयति ।

अथ यं चतुर्थं स्रुवमुन्नयति तद्वै त्र्यम्बकवाजपेयाश्वमेधानां रूपम् ।

त्र्यम्बकवाजपेयाश्वमेधैरेवास्येष्टं भवति य एवं विद्वांश्चतुर्थं स्रुवमुन्नयति ।

अथ समिधमादाय प्राङ्प्रति ।

पुरुष इत्समित् ।

तमन्नमिन्द्धे अन्नस्य मा तेजसा स्वर्गं लोकं गमय ।

यत्र देवानामृषीणां प्रियं धाम तत्र म इदमग्निहोत्रं गमय इति तूष्णीमुपसादयति ।

अथ समिधमभ्यादधाति स्वर्गस्य त्वा लोकस्य सङ्क्रमणं हिरण्मयं वंशं दधामि स्वाहा इति ।

अथ जुहोति ।

स यां प्रथमां जुहोति देवांस्तयाप्नोति ।

अथ यां द्वितीयां जुहोत्यृषींस्तयाप्नोति ४०