०३९

उपसृज्याग्निहोत्रीमित्याह उपसृष्टे द्यावापृथिवी ।

रुद्रा उपगृह्णन्ति वसूनां दुग्धम् ।

भूतकृत स्थ निरूढ जन्यं भयमित्यङ्गारान्निरूहति ।

अथाधिश्रयति वैश्वानरस्याधिश्रेतमसि ।

अग्निस्ते तेजो मा प्रतिधाक्षीत् ।

सत्याय त्वा इति ।

अथावद्योतयति सं ज्योतिषा ज्योतिः इति ।

अथापः प्रत्यानयति यस्ते अप्सु रसः प्रविष्टस्तेन सम्पृच्यस्व इति ।

स यदेवास्य तत्र दिशो ग्रसन्ते तदेवास्य तत्समन्वानयति अन्तरितं रक्षोऽन्तरिता अरातयः इति ।

त्रिः पर्यग्नि करोति ।

अथोद्वासयति दिवं दृंहान्तरिक्षं दृंह पृथिवीं दृंहप्रजां पशूञ्जुह्वतो मे दृह इति ।

भूतकृत स्थ प्रत्यूढं जन्यं भयमित्यङ्गारान्प्रत्यूहति ।

अथ स्रवं च स्रुचं चादाय निष्टपति प्रत्युष्टं रक्षः प्रतुष्टा अरातयः इति ।

अथ स्रुचं सम्मार्ष्टि सजूर्देवेभ्यस्सायंयावभ्यः इति सायम् ।

सजूर्देवेभ्यः प्रातर्यावभ्यः इति प्रातः ।

सुवर्णां त्वां सुवर्णमयीम् ।

हिरण्ययष्टिरस्यमृतपलाशा स्रोतो यज्ञानामिति ।

स्रोतो हैव स यज्ञानां भवति ।

अथाह उन्नेष्यामि इति ।

ॐ मामहं स्वर्गं लोकमभि इति ब्रूयात् ३९