तद्वै तदग्निहोत्रं त्र्यहमेव पयसा जुहुयात् ।
तद्वा अग्निष्टोमस्य रूपम् ।
अग्निष्टोमेनैवास्येष्टं भवति य एवं विद्वानग्निहोत्रं जुहोति ।
तद्वै तदग्निहोत्रं त्र्यहमेव दध्ना जुहुयात् ।
तद्वै वाजपेयस्य रूपम् ।
वाजपेयेनैवास्येष्टं भवति य एवं विद्वानग्निहोत्रं जुहोति ।
तद्वै तदग्निहोत्रं त्र्यहमेवाज्येन जुहुयात् ।
तद्वा अश्वमेधस्य रूपम् ।
अश्वमेधेनैवास्येष्टं भवति य एवं विद्वानग्निहोत्रं जुहोति ।
तद्वै तदग्निहोत्रं त्र्यहमेवाद्भिर्जुहुयात् ।
तद्वै पुरुषमेधस्य रूपम् ।
पुरुषमेधेनैवास्येष्टं भवति य एवं विद्वानग्निहोत्रं जुहोति ।
स्वयमहतवासा यजमानोऽग्निहोत्रं जुहुयादजस्रेष्वग्निष्वप्रवसन् ।
त्रयोदशीं रात्रिं सोमेन वा पशुना वेष्ट्वोत्सृजेत ।
यथा सावसान्कृत्वा प्रार्जयेत्तादृक्तत् ।
तद्वै तदग्निहोत्रं द्वादशाहमेव पूर्वे मनुष्या जुहुवां चक्रुः ।
तस्मात्तेषां दुहे धेनुर्वहत्यनड्वानाधानप्रहितोऽश्वोऽश्वतर उपतिष्ठत्यधिकक्ष्यो हस्ती वहति ३८