०३६

द्वादशाहं जुहोति ।

अष्टाचत्वारिंशदाहुतयस्सम्पद्यन्ते ।

अष्टाचत्वारिंशदक्षरा वै जगती ।

अष्टाचत्वारिंशदादित्या देवाः ।

ते जगतीमन्वायत्ताः ।

तेभ्यो जगत्यादित्येभ्यो देवेभ्य एकैकेनाक्षरेण कामान्निकामान्दुहे ।

एवमस्मै जुह्वते दुहे ।

जगतीं वै स छन्दसां जयत्यादित्यान्देवान्देवानाम् ।

आदित्यानां देवानां सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वानग्निहोत्रं जुहोति ३६