०३२

अष्टाहं जुहोति ।

द्वात्रिंशदाहुतयस्सम्पद्यन्ते ।

द्वात्रिंशदक्षरा वा अनुष्टुप् ।

द्वात्रिंशद्विश्वे देवाः ।

तेऽनुष्टुभमन्वायत्ताः ।

तेभ्योऽनुष्टुब्विश्वेभ्यो देवेभ्य एकैकेनाक्षरेण कामान्निकामान्दुहे ।

एवमस्मै जुह्वते दुहे ।

अनुष्टुभं वै स छन्दसां जयति विश्वान्देवान्देवानाम् ।

विश्वेषां देवानां सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वानग्निहोत्रं जुहोति ३२