तद्यद्वै तन्नभो नामाभीर्वै सा ।
न हि तत्प्राप्य कस्माच्चन बिभेति ।
तस्मात्तन्नभः ।
षडहं जुहोति ।
चतुर्विंशतिराहुतयः सम्पद्यन्ते ।
चतुर्विंशत्यक्षरा वै गायत्री ।
चतुर्विंशतिर्वसवो देवाः ।
ते गायत्रीमन्वायत्ताः ।
तेभ्यो गायत्रीव वसुभ्यो देवेभ्य एकैकेनाक्षरेण कामान्निकामान्दुहे ।
एवमस्मै जुह्वते दुहे ।
गायत्रीं स छन्दसां जयति वसून्देवान्देवानाम् ।
वसूनां देवानां सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वानग्निहोत्रं जुहोति ३०