०२७

स ततो रेष्माणमेव रथं समास्थायादित्यस्य सलोकतामभिप्रयाति ।

त्र्यहं जुहोति ।

द्वादशाहुतयस्सम्पद्यन्ते ।

द्वादश मासास्संवत्सरः ।

संवत्सरो वा इदं सर्वम् ।

यदिहाश्नाति यत्पिबति यस्मै कस्मै चन प्रतिव्याददाति सर्वं तदस्यानशितं भवति यावज्जीवानाशकव्रती भवति ।

एष वै मृत्युर्यदादित्यो म्रोचन्नेव नाम ।

तमेव ताभिराहुतिभिश्शमयित्वा दिवं लोकानां जयत्यादित्यं देवं देवानाम् ।

आदित्यस्य देवस्य सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वानग्निहोत्रं जुहोति २७