०२६

अग्नीनादधानः प्रातरेवोद्धरेत ।

द्विस्सायं द्विः प्रातर्जुहोति ।

चतस्र आहुतयस्सम्पद्यन्ते ।

चतुष्पदा वै पशवो ये च ग्राम्या ये चारण्याः ।

तेषामेवैतत्प्रत्याशं प्रत्यपचयति ।

एष वै मृत्युर्यदग्नी रिहन्नेव नाम ।

तमेव ताभिराहुतिभिश्शमयित्वा पृथिवीं लोकानां जयत्यग्निं देवं देवानाम् ।

अग्नेर्देवस्य सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वानग्निहोत्रं जुहोति ।

स ततो धूममेव रथं समास्थाय वायोस्सलोकतामभिप्रयाति ।

द्व्यहं जुहोति ।

अष्टावाहुतयस्सम्पद्यन्ते ।

अष्टाशफा ह वै पशवो ये च ग्राम्या ये चारण्याः ।

तेषामेवैतत्प्रत्याशं प्रत्यपचयति ।

एष वै मृत्युर्यद्वायुरजिर एव नाम ।

तमेव ताभिराहुतिभिश्शमयित्वान्तरिक्षं लोकानां जयति वायुं देवं देवानाम् ।

वायोर्देवस्य सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वानग्निहोत्रं जुहोति २६