स होवाच बुडिल आश्वतराश्विर्वैयाघ्रपद्योऽर्काश्वमेधावित्येव सम्राडहमग्निहोत्रं जुहोमि ।
अन्नं ह्येतद्देवानां यदर्कोऽश्वो मेधो मेध्य इति ।
तं होवाच वैयाघ्रपद्य कोऽर्कः कोऽश्वो मेधो मेध्य इति ।
अग्निमुपदिशन्नुवाचायमर्क इत्यसावश्वो मेधो मेध्य इत्यादित्यम् ।
सोऽहममुमश्वं मेधं मेध्यमस्मिन्नर्के सायं जुहोमीममर्कममुष्मिन्नश्वे मेधे मेध्ये प्रातर्जुहोमि ।
एतावेव मा तद्गमयिष्यतो यत्र सर्वे कामाः ।
एतौ मे पुनर्मृत्युमपजेष्यत इति ।
सुहुतमिति ह प्रशस्योवाच यो ह किल मह्यमग्निहोत्र इतिं च गतिं ब्रूयात्तस्मा अहं वरं दद्यामिति ।
ते होचुर्न न्वै वयमग्निहोत्र इतिं च गतिं चानूचिमहे त्वमस्मभ्यमग्निहोत्र इतिं च गतिं च ब्रूहि वयं तुभ्यं पृथक्पञ्च वरान्दद्म इति ।
अग्निमुपदिषन्नुवाचेयमितिरित्यसौ गतिरित्यादित्यम् ।
सोऽहममूं गतिमस्यामितौ सायं जुहोमीमामितिममुष्यां गतौ प्रातर्जुहोमि ।
एतावेव मा तद्गमयिष्यतो यत्र सर्वे कामाः ।
एतौ मे पुनर्मृतुमपजेष्यत इति ।
सुहुतमिति ह प्रशस्योचुर्वरान्वृणीष्व यानदामेति ।
स होवाचैष एव मे वरोऽहमेव युष्मभ्यं पृथक्पञ्च सहस्राणि शताश्वानि ददानीति ।
एतानि वा अग्निहोत्र उपासनान्येते कामाः ।
एतानेव कामानवरुन्द्धे य एवं वेदाथो यस्यैवं विद्वानग्निहोत्रं जुहोति २५