०२४

स होवाच बर्कुर्वार्ष्णो भूयिष्ठं श्रेष्ठं वित्तानामित्येव सम्राडहमग्निहोत्रं जुहोमि ।

तस्मादहं भूयिष्ठं श्रेष्ठं वित्तानामस्मि ।

भूयिष्ठं वाव मे श्रेष्ठं वित्तानां प्रजायामन्ततो भवितेति ।

तं होवाचाग्निवेश्य किं भूयिष्ठं श्रेष्ठं वित्तानामिति ।

अग्निमुपदिषन्नुवाचेदं भूयिष्ठं श्रेष्ठं वित्तानामित्यदो भूयिष्ठं श्रेष्ठं वित्तानामित्यादित्यम् ।

सोऽहमदो भूयिष्ठं श्रेष्ठं वित्तानामस्मिन्भूयिष्ठे श्रेष्ठे वित्तानां सायं जुहोमीदं भूयिष्ठं श्रेष्ठं वित्तानाममुष्मिन्भूयिष्ठे श्रेष्ठे वित्तानाम्प्रातर्जुहोमि ।

एतावेव मा तद्गमयिष्यतो यत्र सर्वे कामाः ।

एतौ मे पुनर्मृत्युमपजेष्यत इति ।

सुहुतं देवान्राधयानि इति हैव प्रशशंस ।

अथ हापरं पप्रच्छ कथा भगवस्त्वमग्निहोत्रं जुहोषीति ।

स होवाच प्रियो जानश्रुतेयस्तेज इत्येव सम्राडहमग्निहोत्रं जुहोमि तस्मादहं तेजोऽस्मि ।

तेजो वाव मे प्रजायामन्ततो भवितेति ।

तं होवाच काण्ड्वीय किं तेज इति ।

अग्निमुपदिशन्नुवाचेदं तेज इत्यदस्तेज इत्यादित्यम् ।

सोऽहमदस्तेजोऽस्मिंस्तेजसि सायं जुहोमीदं तेजोऽमुष्मिंस्तेजसि प्रातर्जुहोमि ।

एतावेव मा तद्गमयिष्यतो यत्र सर्वे कामाः ।

एतौ मे पुनर्मृत्युमपजेष्यत इति ।

सुहुतं देवान्राधयानि इति हैव प्रशशंस ।

अथ हापरं पप्रच्छ कथा भगवस्त्वमग्निहोत्रं जुहोषीति ।