०२३

स होवाच यश इत्येव सम्राडहमग्निहोत्रं जुहोमि ।

तस्मादहं यशोऽस्मि ।

यशो वाव मे प्रजायामन्ततो भवितेति ।

तं होवाच गौतम किं यश इति ।

अग्निमुपदिशन्नुवाचेदं यश इत्यदो यश इत्यादित्यम् ।

सोऽहमदो यशोऽस्मिन्यशसि सायं जुहोमीदं यशोऽमुष्मिन्यशसि प्रातर्जुहोमि ।

एतावेव मा तद्गमयिष्यतो यत्र सर्वे कामाः ।

एतौ मे पुनर्मृत्युमपजेष्यत इति ।

सुहुतं देवान्राधयानि इति ह प्रशशंस ।

अथ हापरं पप्रच्छ कथा भगवस्त्वमग्निहोत्रं जुहोषीति ।

स होवाच वाजसनेयः सत्यमित्येव सम्राडहमग्निहोत्रं जुहोमि ।

तस्मादहं सत्यमस्मि ।

तस्मान्मम सत्यमिव वदतः प्रकाश इति ।

तं होवाच याज्ञवल्क्य किं सत्यमिति ।

अग्निमुपदिशन्नुवाचेदं सत्यमित्यदः सत्यमित्यादित्यम् ।

सोऽहमदः सत्यमस्मिन्न्सत्ये सायं जुहोमीदं सत्यममुष्मिन्सत्ये प्रातर्जुहोमि ।

एतावेव मा तद्गमयिष्यतो यत्र सर्वे कामाः ।

एतौ मे पुनर्मृत्युमपजेष्यत इति ।

सुहुतं देवान्राधयानि इति हैव प्रशशंस ।

अथ हापरं पप्रच्छ कथा भगवस्त्वमग्निहोत्रं जुहोषीति २३