आरुणिर्वाजसनेयो बर्कुर्वार्ष्णः प्रियो जानष्रुतेयो बुडिल आश्वतराश्विर्वैयाघ्रपद्य इत्येते ह पञ्च महाब्रह्मा आसुः । अथैतेषां महतां ब्राह्मणानां समुदितमारुणेर्जीवलस्य कारीरादेरषाढस्य सावयस्येन्द्र द्युम्नस्य भाल्लवेयस्येति ।
ते होचुर्जनको वा अयं वैदेहोऽग्निहोत्रेऽनुशिष्टः स नोऽतिवदन्निव मन्यत ।
एत ।
तमग्निहोत्रे कथां वादयिष्याम इति ।
ते हाजग्मुः ।
ते ह ब्रह्मचारिणमूचुः प्र णो ब्रूहीति ।
तान्ह प्रोवाच ।
तेभ्यो ह प्रोक्तेभ्यः पृथगासनानि पृथगुदकानि पृथङ्मधुपर्कान्पृथगावसथान्पृथक्पञ्चभ्यः पञ्चापचितीश्चकार ।
अथ हैषां सभाग आवव्राजोप्त्वा केशश्मश्रूणि नखान्निकृत्याज्याभ्यज्य दण्डोपानहं बिभ्रत् ।
तान्होवाच ब्राह्मणाः कथा भगवन्तो नोऽनुसंवादयथेति ।
अति नोऽवादीरिति होचुः ।
अथ हैनाण्पूर्वाः पप्रच्छ ब्राह्मणाः कथा भगवन्तो यूयमग्निहोत्रं जुहुथेति ।
अति वै नोऽवादीरिति होचुर्यो नो भूयसः सतः पूर्वोऽप्राक्षीः ।
गौतम प्रतिब्रूहीति २२