०२१

रौद्रं गवि वायव्यमुपसृष्टमाश्विनं दुह्यमानमग्नीषोमीयं दुग्धं पौष्णाः प्रेन्दवो मैत्रश्शरो वारुणमधिश्रितं वैष्णवं प्रतिष्ठाप्यमानं वैश्वदेवमुन्नीतं सवितुः प्रक्रान्तं द्यावापृथिव्योरुपसन्नमिन्द्रा ग्न्योः पूर्वाहुतिः प्रजापतेरुत्तरा ।

तदेतत्सप्तदशमग्निहोत्रम् ।

सप्तदश उ एवा वाजपेयः ।

स य एवं विद्वानग्निहोत्रं जुहोत्युभावेव लोकावभिजयति यश्चाग्निहोत्रहुतो यश्च वाजपेययाजिनः ।

त्रयोऽग्निहोत्रे स्थाणव इति ह स्माह शाण्डिल्यः ।

यदप्रदीप्तायां समिधि जुहोति स स्थाणुः ।

यदेनामपराध्नोति स स्थाणुः ।

यदेने संसृजत्स स्थाणुः ।

आदीप्तायै समिधस्समुन्मुखे जुहोति ।

अतिहायोत्तरामाहुतिं जुहोति ।

प्र ह सप्तदशसप्तदश सहस्रपोषान्पुष्यति य एवं विद्वानग्निहोत्रं जुहोति २१