०२०

\अग्निहोत्री गृहेभ्यः

कथा तदस्य काव्यं कथा सन्ततोऽग्निभिः

इति ।

यदग्नीनाधायाथापप्रवसति कथमस्यानपप्रोषितं भवतीति ।

स होवाच वाजसनेयः

यो जविष्ठो भुवनेषु स विद्वान्प्रवसन्विदे

तथा तदस्य काव्यं तथा सन्ततोऽग्निभिः

इति ।

मन इति होवाच ।

मनो वाव भुवनेषु जविष्ठम् ।

मनसैवास्यानपप्रोषितं भवतीति ह तदुवाच ।

अथ हैनमुपजगौ

यत्स दूरं परेत्याथ तत्र प्रमाद्यत्

कस्मिन्सास्य हुताहुतिर्गृहे यामस्य जुह्वति

इति ।

स होवाच वाजसनेयः

यो जागार भुवनेषु स विद्वान्प्रवसन्विदे

तस्मिन्सास्य हुताहुतिर्गृहे यामस्य जुह्वति

इति ।

प्राण इति होवाच ।

प्राणो वाव भुवनेषु जागरः ।

प्राण एवास्य सा हुताहुतिर्भवति ।

तस्मादाहुः प्राणोऽग्निहोत्रमिति ।

यावद्ध्येव प्राणेन प्राणिति तावदग्निहोत्रं जुहोति २०