०१९

वाग्वा अग्निहोत्री ।

तस्यै मन एव वत्सः ।

मनसा वै वाचं प्रत्तां दुह्रे ।

वत्सेन वै मातरं प्रत्तां दुह्रे ।

तद्वा इदं मनः पूर्वं यत्पश्चा वागन्वेति तस्माद्वत्सं पूर्वं यन्तं पश्चा मातान्वेति ।

हृदयमेव मेथ्युपदोहनी प्राणो रज्जुः ।

प्राणेनैव वाक्च मनश्चाभिहिते ।

रज्ज्वा वै वत्सं च मातरं चाभिदधाति ।

तद्ध जनको वैदेहो याज्ञवल्क्यं पप्रच्छ वेत्थाग्निहोत्रं याज्ञवल्क्या३इति ।

वेदेति होवाच ।

किमिति ।

पय इति ।

यत्पयो न स्यात्केन जुहुया इति ।

व्रीहियवाभ्यामिति ।

यद्व्रीहियवौ न स्यातां केन जुहुया इति ।

यदन्यद्धान्यं तेनेति ।

यदन्यद्धान्यं न स्यात्केन जुहुया इति ।

आरण्याभिरोषधीभिरिति ।

यदारण्या ओषधयो न स्युः केन जुहुया इति ।

अद्भिरिति ।

यदापो न स्युः केन जुहुया इति ।

स होवाच न वा इह तर्हि किं चनासीदथैतदु हूयत इव सत्यं श्रद्धायामिति ।

तं होवाच वेत्थाग्निहोत्रं याज्ञवल्क्य नमस्तेऽस्तु सहस्रं भगवो दद्म इति ।

अथ हैनमुपजगौ किं स्विद्विद्वान्प्रवसति । १९