०१८

तस्य प्राणः प्रथम उत्क्रामति ।

स हेयत्तां देवेभ्य आचष्ट इयदस्य साधु कृतमियत्पापमिति ।

अथ हायं धूमेन सहोर्ध्व उत्क्रामति ।

तस्य हैतस्यर्तवो द्वारपाः ।

तेभ्यो हैतेन प्रब्रुवीत

विचक्षणादृतवो रेत आभृतमर्धमास्यं प्रसुतात्पित्र्यावतः

तं मा पुंसि कर्तर्येरयध्वं पुंसः कर्तुर्मातर्यासिषिक्त

स उपजायोपजायमानो द्वादशेन त्रयोदशोपमासः

सं तद्विदे प्रति तद्विदेऽहं तं मा ऋतवोऽमृत आनयध्वम्

इति ।

तं हर्तव आनयन्ते ।

यथा विद्वान्विद्वांसं यथा जानञ्जानन्तमेवं हैनमृतव आनयन्ते ।

तं हात्यर्जयन्ते ।

स हैतमागच्छति तपन्तम् ।

तं हागतं पृच्छति कस्त्वमसि इति ।

स यो ह नाम्ना वा गोत्रेण वा प्रब्रूते तं हाह यस्तेऽयं मय्यात्माभूदेष ते सः इति ।

तस्मिन्हात्मन्प्रतिपन्न ऋतवस्सम्पलाय्य पद्गृहीतमपकर्षन्ति ।

तस्य हाहोरात्रे लोकमाप्नुतः ।

तस्मादु हैतेन प्रब्रुवीत कोऽहमस्मि सुवस्त्वम् ।

स त्वां स्वर्ग्यं स्वरगामिति ।

को ह वै प्रजापतिः ।

अथ हैवंविदेव सुवर्गः ।

स हि सुवर्गच्छति ।

तं हाह यस्त्वमसि सोऽहमस्मि ।

योऽहमस्मि स त्वमस्येहि इति ।

स एतमेव सुकृतरसमप्येति ।

तस्य पुत्रा दायमुपयन्ति पितरस्साधुकृत्याम् ।

स हैवं विद्वान्द्व्यात्मा द्विदायः ।

एकात्मा हैवैकदाय एतदविद्वानग्निहोत्रं जुहोति १८