०१७

द्वे ह वाव योनी ।

देवयोनिर्हैवान्या मनुष्ययोनिरन्या ।

द्वा उ हैव लोकौ ।

देवलोको हैवान्यो मनुष्यलोकोऽन्यः ।

सा या मनुष्ययोनिर्मनुष्यलोक एव सः ।

तत्स्त्रियै प्रजननम् ।

अतोऽधि प्रजाः प्रजायन्ते ।

तस्मादु कल्याणीं जायामिच्छेत कल्याणे म आत्मा सम्भवादिति ।

तस्मादु जायां जुगुप्सेन्नेन्मम योनौ मम लोकेऽन्यस्सम्भवादिति ।

तस्य वै सम्भविष्यतः प्राणा अग्रे प्रविशन्त्यथ रेतस्सिच्यते ।

स इमान्प्राणानाकाशानभिनिर्वर्तते ।

तस्मादु समानस्यैव रेतसस्सतो यादृश एव भवति तादृशो जायते ।

अथैषा देवयोनिर्देवलोको यदाहवनीयः ।

एषा ह वै देवयोनिर्देवलोकः ।

तस्माद्यो गार्हपत्ये जुहुयादकृतं करोतीत्येवैनं मन्येरन् ।

स यज्जुहोति यस्साधु करोत्येतस्यामेवैनद्देवयोनावात्मानं सिञ्चति ।

सोऽस्यात्मामुष्मिन्नादित्ये सम्भवति ।

स हैवं विद्वान्द्व्यात्मा द्वियोनिः ।

एकात्मा हैवैकयोनिरेतदविद्वान्स यदस्माल्लोकादेवंवित्प्रति १७