मनो वा अनु प्राणा वाचमन्वात्मा ।
स यद्वाचा पूर्वमाहुतिं जुहोति मनसोत्तरां तद्दुष्कृतसुकृते व्यावर्तयति ।
तस्मादाहुर्नैते आहुती संसृज्ये ।
दुष्कृतसुकृते ह्येताभ्यां व्यावर्तयतीति ।
स यत्सायमाहुत्योर्वाचा पूर्वामाहुतिं जुहोति यदेवाह्ना पापं करोति तस्मादेव तया व्यावर्तते ।
अथ यन्मनसोत्तरां यदेव रात्र्या पापं करोति तस्मादेव तया व्यावर्तते ।
अथ यत्प्रातराहुत्योर्वाचा पूर्वामाहुतिं जुहोति यदेव रात्र्या पापं करोति तस्मादेव तया व्यावर्तते ।
अथ यन्मनसोत्तरां यदेवाह्ना पापं करोति तस्मादेव तया व्यावर्तते ।
स एषोऽहरहर्दुष्कृतेन व्यावर्तमान एति य एवं विद्वानग्निहोत्रं जुहोति १६