तदाहुर्यज्जीवन्पुरुषः करोत्येव साधु करोति पापं का तयोर्दुष्कृतसुकृतयोर्व्यावृत्तिरिति ।
यद्ध वै जीवन्पुरुषस्साधु करोति प्राणांस्तदभिसम्पद्यते ।
अथ यद्दुष्कृतं शरीरं तत् ।
स यदस्माल्लोकादेवंवित्प्रैति तस्य प्राणेन सह सुकृतमुत्क्रामति शरीरेण सह दुष्कृतं हीयते ।
तदाहुर्दुर्विदितं वैतद्यदा मर्त्यवान्दुष्कृतेन सह वसात् ।
यो वा एतेन जीवन्नेव व्यावर्तते तत्सुविदितमिति ।
तद्वा एतदग्निहोत्रमेवाभिसम्पद्यते १५